|
दर्शनं
देवदेवस्य, दर्शनं
पापनाशनम्|
दर्शनं स्वर्गसोपानं,
दर्शनं मोक्षसाधनम्|1|
दर्शनेन जिनेन्द्राणां,
साधूनां वंदनेन च|
न चिरं तिष्ठते पापं,
छिद्रहस्ते यथोदकम्|2|
वीतरागमुखं
द्रष्ट्वा,
पद्मरागसमप्रभं|
जन्म-जन्मकृतं पापं
दर्शनेन विनश्यति|3|
दर्शनं जिनसूर्यस्य,
संसार-ध्वान्त-नाशनं|
बोधनं चित्त-पद्मस्य,
समस्तार्थ-प्रकाशनम्|4|
दर्शनं
जिनचंद्रस्य,
सद्धर्मामृत-वर्षणम्|
जन्म-दाह-विनाशाय,
वर्द्धनं सुख-वारिधेः|5|
जीवादि तत्त्व
प्रतिपादकाय, सम्यक्त्व-मुख्याष्ट-गुणार्णवाय|
प्रशांत-रुपाय
दिगम्बराय, देवाधिदेवाय
नमो जिनाय |6|
चिदानन्दैक-रुपाय,
जिनाय परमात्मने|
परमात्म-प्रकाशाय,
नित्यं सिद्धात्मने नमः|7|
अन्यथा शरणं नास्ति,
त्वमेव शरणं मम|
तस्मात्कारुण्य-भावेन,
रक्ष रक्ष जिनेश्वर|8|
न हि त्राता न हि त्राता,
न हि त्राता जगत्त्रये|
वीतरागात्परो देवो, न
भूतो न भविष्यति |9|
जिनेर्भक्तिः
जिनेर्भक्तिः
जिनेर्भक्तिः दिने दिने|
सदा मेऽस्तु, सदा
मेऽस्तु, सदा मेऽस्तु
भवे भवे|10|
जिनधर्म -
विनिर्मुक्तो, मा
भवेच्चक्रवर्त्यपि|
स्याच्चेटोऽपि
दरिद्रोऽपि
जिनधर्मानुवासितः|11|
जन्म-जन्मकृतं पापं,
जन्म-कोटिमुपार्जितम्|
जन्म-म्रत्यु-जरा-रोगं,
हन्यते जिन-दर्शनात्|12|
अद्याभवत्सफलता
नयनद्वयस्य,
देव ! त्वदीय चरणाम्बुज
वीक्षणेन|
अद्य त्रिलोक-तिलकं !
प्रतिभासते मे,
संसार-वारिधिरयं चुलुक-प्रमाणम्|13|
END देवदर्शन स्तोत्रम् |
|