|
अर्हन्तो
भगवत इन्द्रमहिताः,
सिद्धाश्च
सिद्धीश्वरा,
आचार्याः
जिनशासनोन्नतिकराः,
पूज्या उपाध्यायकाः|
श्रीसिद्धान्तसुपाठकाः,
मुनिवरा
रत्नत्रयाराधकाः,
पञ्चैते परमेष्ठिनः
प्रतिदिनं, कुर्वन्तु
नः मंगलम्|| 1
|
|
श्रीमन्नम्र
- सुरासुरेन्द्र - मुकुट
- प्रद्योत - रत्नप्रभा-
भास्वत्पादनखेन्दवः
प्रवचनाम्भोधीन्दवः
स्थायिनः|
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते
पाठकाः साधवः
स्तुत्या योगीजनैश्च
पञ्चगुरवः कुर्वन्तु
नः मंगलम्|| 2
|
|
सम्यग्दर्शन-बोध-व्रत्तममलं,
रत्नत्रयं पावनं,
मुक्ति श्रीनगराधिनाथ -
जिनपत्युक्तोऽपवर्गप्रदः|
धर्म सूक्तिसुधा च
चैत्यमखिलं, चैत्यालयं
श्रयालयं,
प्रोक्तं च त्रिविधं
चतुर्विधममी,
कुर्वन्तु नः मंगलम्|| 3
|
|
नाभेयादिजिनाः
प्रशस्त-वदनाः
ख्याताश्चतुर्विंशतिः,
श्रीमन्तो भरतेश्वर-प्रभृतयो
ये चक्रिणो द्वादश|
ये विष्णु-प्रतिविष्णु-लांगलधराः
सप्तोत्तराविंशतिः,
त्रैकाल्ये
प्रथितास्त्रिषष्टि-पुरुषाः
कुर्वन्तु नः मंगलम्|| 4 |
|
ये
सर्वौषध-ऋद्धयः सुतपसो
वृद्धिंगताः पञ्च ये,
ये चाष्टाँग-महानिमित्तकुशलाः
येऽष्टाविधाश्चारणाः|
पञ्चज्ञानधरास्त्रयोऽपि
बलिनो ये
बुद्धिऋद्धिश्वराः,
सप्तैते सकलार्चिता
मुनिवराः कुर्वन्तु नः
मंगलम्|| 5 |
ज्योतिर्व्यन्तर-भावनामरग्रहे
मेरौ कुलाद्रौ स्थिताः,
जम्बूशाल्मलि-चैत्य-शखिषु
तथा वक्षार-रुप्याद्रिषु|
इक्ष्वाकार-गिरौ च
कुण्डलादि द्वीपे च
नन्दीश्वरे,
शैले ये मनुजोत्तरे जिन-ग्रहाः
कुर्वन्तु नः मंगलम्|| 6
|
|
कैलाशे
वृषभस्य निर्व्रतिमही
वीरस्य पावापुरे|
चम्पायां
वसुपूज्यसुज्जिनपतेः
सम्मेदशैलेऽर्हताम्|
शेषाणामपि
चोर्जयन्तशिखरे
नेमीश्वरस्यार्हतः,
निर्वाणावनयः
प्रसिद्धविभवाः
कुर्वन्तु नः मंगलम्|| 7
|
|
यो गर्भावतरोत्सवो
भगवतां
जन्माभिषेकोत्सवो,
यो जातः परिनिष्क्रमेण
विभवो यः
केवलज्ञानभाक्|
यः कैवल्यपुर-प्रवेश-महिमा
सम्पदितः स्वर्गिभिः
कल्याणानि च तानि पंच
सततं कुर्वन्तु नः
मंगलम्|| 8
|
|
सर्पो
हारलता भवत्यसिलता
सत्पुष्पदामायते,
सम्पद्येत रसायनं
विषमपि प्रीतिं
विधत्ते रिपुः|
देवाः यान्ति वशं
प्रसन्नमनसः किं वा बहु
ब्रूमहे,
धर्मादेव नभोऽपि
वर्षति नगैः कुर्वन्तु
नः मंगलम्|| 9
|
|
इत्थं
श्रीजिन-मंगलाष्टकमिदं
सौभाग्य-सम्पत्करम्,
कल्याणेषु महोत्सवेषु
सुधियस्तीर्थंकराणामुषः|
ये श्र्रण्वन्ति
पठन्ति तैश्च सुजनैः
धर्मार्थ-कामाविन्ताः,
लक्ष्मीराश्रयते
व्यपाय-रहिता निर्वाण-लक्ष्मीरपि|| 10
|
|
END |