श्रिया परंपश्यति
साधु निःस्वः श्रीमान्न
कश्र्चित्कृपणंत्वदन्यः|
यथा प्रकाश-स्थितमन्धकारस्थायीक्षेऽसौ
न तथा तमः स्थम्|21|
स्ववृद्धिनिःश्र्वास-निमेषभाजि
प्रत्यक्षमात्मानुभवेऽपि
मूढः|
किं चाखिल-क्षेय-विवर्ति-बोधस्वरुपमध्यक्षमवैति
लोकः|22|
तस्यात्मजस्तस्य
पितेर्तिदेव त्वां
येऽवगायन्ति
कुलंप्रकाश्य|
तेऽद्यपि
नन्वाश्मनमित्यवश्यं
पाणौ कृतं हेम
पुनस्त्यजन्ति|23|
दत्तस्त्रिलोक्यां
पटहोऽभिभूताः
सुरासुरास्तस्य महान्
सलाभः|
मोहस्य मोहस्त्वयि को
विरोद्धुर्मूलस्य नाशो
बलवद्विरोधः|24|
मार्गस्त्वयैको
दद्दशे
विमुक्तेश्र्चतुर्गतीनां
गहनं परेण|
सर्वं मया द्दष्टंमिति
स्मयेन त्वं मा
कदाचिभ्द्रुजमालुलोक|25|
स्वर्भानुरर्कस्य
हविर्भुजोऽम्भः
कल्पान्तवातोऽम्बुनिधेर्विघातः|
संसार-भोगस्य वियोग-भावो
विपक्ष-पूर्वाभ्युदयास्त्वदन्ये|26|
अजानतस्त्वां
नमतः फलं
यत्तज्जानतोऽन्यं न तु
देवतेति|
हरिन्मणिं काचाधिया
दधानस्तं तस्य बुद्धयां
वहतो न रिक्त|27|
प्रशस्त-वाचश्र्चतुराः
कषायैर्दग्धस्य देव-व्यवहारमाहुः|
गतस्य दीपस्य हि
नन्दितत्वं द्दष्टं
कपालस्य च मगंलत्वम्|28|
नानार्थमेकार्थमदस्त्वदुक्तं
हितं वचस्ते निशमय्य
वक्तुः|
निर्दोषतां के न
विभावयन्ति ज्वरेण
मुक्तः सुगमः स्वरेण|29|
न क्कापि वाञ्छा ववृते च
वाक्ते काले
क्कचित्कोऽपि तथा
नियोगः|
न
पूरयाभ्यम्बुधिमित्युदंशुः
स्वयं हि
शीतद्युतिरभ्युदेति|30|
गुणा गभीराः परमाः
प्रसन्ना बहु-प्रकारा
बहवस्तवेति|
द्दष्टोऽयमन्तः स्तवने
न तेषां गुणो गुणानां
किमतः परोऽस्ति|31|
स्तुत्या
परंनाभिमतं हि भक्त्या
स्मृत्या प्रणत्या च
ततो भजामि|
स्मरामि देवं प्रणमामि
नित्यं केनाप्युपायेन
फलं हि साध्यम् |32|
ततस्त्रिलोकी-नगराधिदेवं
नित्यं परं ज्योतिरनन्त-शक्तिम्|
अपुण्य-पापं पर-पुण्य-हेतुं
नमाभ्यहं
वन्द्यमवन्दितारम्|33|
अशब्दमस्पर्शमरुप-गन्धं
त्वां नीरसं
तद्विषयावबोधम्|
सर्वस्य
मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि|34|
अगाध
मन्यैर्मनसाप्यलग्घयं
निष्किञ्चनं
प्रार्थितमर्थवभ्दिः|
विश्र्वस्य पारं
तमद्दष्टपारं पतिं
जनानां शरणं ब्रजामि |35|
त्रैलोक्य-दीक्षा-गुरवे
नमस्ते यो वर्धमानोऽपि
निजोन्नतोऽभूत्|
प्राग्गण्डशैलः
पुनरद्रि-कल्पः
पश्र्चान्न मेरुः कुल
पर्वतोऽभूत्|36|
स्वयंप्रकाशस्य दिवा
निशा वा न बाध्यता यस्य न
बाधकत्वम्|
न लाघवं गौरवमेकरुपं
वन्दे विभुं
कालकलामतीतम् |37|
इति स्तुतिं देव
विधाय दैन्याद्वरं न
याचे त्वमुपेक्षकोऽसि|
छायातरुंसंश्रयतः
स्वतः स्यात्कश्छायया
याचितयात्मलाभ|38|
अस्थास्ति दित्सा यदि
बोपरोधस्त्वय्येव
सक्तां दिश भक्ति-बुद्धिम्|
करिष्यते देव तथा कृपा
मे को वात्मपोष्ये
सुमुखो न सूरिः |39|
वितरति विहिता
यथाकथञ्चिज्जिन विनताय
मनीषितानि भक्तिः|
त्वयि नुति-विषया
पुनर्विशेषाद्दिशति
सुखानि यशो 'धनं जयं' च|40|
END विषापहारस्तोत्रम्
Back to Part 1.. |